|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.60. अध्यायः 060
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन द्रोणिपराभवनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-60-0x(3240)(30922)
तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः।
शरजालेन महता वर्षमाण इवाम्बुदः ॥ 4-60-1(30923)
तयोर्देवासुरसमः सन्निपातो महानभूत् ।
किरतोः शरजालानि वृत्रवासवयोरिव ॥ 4-60-2(30924)
न स्म सूर्यस्तदा भाति न च वाति समीरणः ।
शरगाढे कृते व्योम्नि छायाभूतमिवाभवत् ॥ 4-60-3(30925)
महांश्चटचटाशब्दो योधयोर्युध्यमानयोः ।
दह्यतामिव वेणूनामासीत्परमदारुणः॥ 4-60-4(30926)
हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसाः ।
ते राजन्न प्रजानन्ति दिशं कांचन मोहिताः ॥ 4-60-5(30927)
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः ।
विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः ॥ 4-60-6(30928)
तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् ।
न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनंजयम् ॥ 4-60-7(30929)
ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः ।
पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः । 4-60-8(30930)
ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा।
योजयामास च तदा मौर्व्या गाण्डीवमोजसा ॥ 4-60-9(30931)
तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम् ।
ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत ॥ 4-60-10(30932)
ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः ।
चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा ।
विव्याध निशितैश्चापि शरैराशीविपोपमैः ॥ 4-60-11(30933)
सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः।
वारणेनेव मत्तेन मत्तो वारणयूथपः ॥ 4-60-12(30934)
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः ।
रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम् ॥ 4-60-13(30935)
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः।
युध्यमानौ महात्मानौ द्विरदाविव संगतौ ॥ 4-60-14(30936)
तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ ।
शरै राशीविषाकारैर्ज्वलद्भिरिव पावकैः ॥ 4-60-15(30937)
अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः।
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ॥ 4-60-16(30938)
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे।
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ॥ ॥ 4-60-17(30939)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|